त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे । आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥
tvam purū sahasrāṇi śatāni ca yūthā dānāya maṁhase | ā puraṁdaraṁ cakṛma vipravacasa indraṁ gāyanto vase ||
त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ । आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥ ८.६१.८